|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.272. अध्यायः 272
Mahabharata - Vana Parva - Chapter Topics
युधिष्ठिरादीनां जयद्रथादिभिरायोधनम् ॥ 1 ॥ जयद्रथेन मीमादिभिः स्वसहायानां निधने द्रौपदीविमोचनपूर्वकं पलायनम् ॥ 2 ॥ भीमार्जुनाभ्यां परुषोक्तिपूर्वकं तदनुधावनम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-272-0x(2676)(26297)
संतिष्ठध्वं प्रहरत तूर्णं विपरिधावत।
इति स्म सैन्धवो राजा चोदयामास तान्नृपन् ॥ 3-272-1(26298)
ततो घोरतमः शब्दोरणे समभवत्तदा।
भीमार्जुनयमान्दृष्ट्वा सैन्यानां सयुधिष्ठिरान् ॥ 3-272-2(26299)
शिबिसिंधुत्रिगर्तानां विषादश्चाप्यजायत।
तान्दृष्ट्वापुरुषव्याघ्रान्व्याघ्रानिव बलोत्कटान् ॥ 3-272-3(26300)
हेमबिन्दुं महोत्सेधां सर्वशैक्यायसीं गदाम्।
प्रगृह्याभ्यद्रवद्भीमः सैन्धवं कालचोदितम् ॥ 3-272-4(26301)
तदन्तरमथावृत्य कोटिकाश्योऽभ्यहारयत्।
महता रथवंशेन परिवार्य वृकोधरम् ॥ 3-272-5(26302)
शक्तितोमरनाराचैर्वीरबाहुप्रचोदितैः।
कीर्यमाणोपि बहुभिर्न स्म भीमोऽभ्यकम्पत ॥ 3-272-6(26303)
गजं तु सगजारोहं पदातींश्च चतुर्दश।
जघान गदया भीमः सैन्धवध्वजंनीमुखे ॥ 3-272-7(26304)
पार्थः पञ्चशताञ्शूरान्पार्वतीयान्महारथान्।
परीप्समानः सौवीरं जघान ध्वजिनीमुखे ॥ 3-272-8(26305)
राजा स्वयं सुवीराणां प्रवराणां प्रहारिणाम्।
निमेषमात्रेण शतं जघान समरे तदा ॥ 3-272-9(26306)
ददृशे नकुलस्तत्ररथात्प्रस्कन्द्य खङ्गधृत्।
शिरांसि पादरक्षाणां बीजवत्प्रवपन्मुहुः ॥ 3-272-10(26307)
सहदेवस्तु संयाय रथेन गजयोधिनः।
पातयामास नाराचैर्द्रुमेभ्य इव बर्हिणः ॥ 3-272-11(26308)
ततस्त्रिगर्तः सधनुरवतीर्य महारथात्।
गदया चतुरो वाहान्राज्ञस्तस् तदाऽवधीत् ॥ 3-272-12(26309)
तमथाभ्यागतं राजा पदातिं कुन्तिनन्दनः।
अर्धचन्द्रेण बाणएन विव्याधोरसि धर्मराट् ॥ 3-272-13(26310)
स भिन्नहृदयो वीरो वक्राच्छोणितमुद्वमन्।
पपाताभिमुखं प्राप्तश्चिन्नमूल इव द्रुमः ॥ 3-272-14(26311)
इन्द्रसेनद्वितीयस्तु रथात्प्रस्कन्द्य धर्मराट्।
हताश्वः सहदेवस्य प्रतिपेदे महारथम् ॥ 3-272-15(26312)
नकुलं त्वभिसंवार्य क्षेमंकरमहामुखौ।
उभावुभतस्तीक्ष्णैः शरवर्षैरवर्षताम् ॥ 3-272-16(26313)
तौ शरैरभिवर्षन्तौ जीमूताविव वार्षिकौ।
एकैकेन विपाठेन जघ्ने माद्रवतीसुतः ॥ 3-272-17(26314)
त्रिगर्तराजः सुरथस्तस्याथ गजूर्गतः।
रथमाक्षेपयामास गजेन गजयानवित् ॥ 3-272-18(26315)
नकुलस्त्वपभीस्तस्माद्रथाच्चर्मासिपाणिमान्।
उद्धाम्य स्तानमास्थाय तस्थौ गिरिवाचलः ॥ 3-272-19(26316)
सुरथस्तं गजवरं वधाय नकुलस्य तु।
प्रेषयामास सक्रोधमत्युच्छ्रितकरं ततः ॥ 3-272-20(26317)
नकुलस्तस्य नागस्य समीपपरिवर्तिनः।
सविषाणं भुजं मूले खङ्गेन निरकृन्तत ॥ 3-272-21(26318)
स विनद्यमहानादं गजः किङ्किणिभूषणः।
पतन्नवाक्शिरा भूमौ हस्त्यारोहमपोथयत् ॥ 3-272-22(26319)
स तत्कर्म महत्कृत्वा शूरो माद्रवतीसुतः।
भीमसेनरथं प्राप्य शर्म लेभे महारथः ॥ 3-272-23(26320)
भीमस्त्वापततो राज्ञः कोटिकाश्यस् संगरे।
सूतस्य नुदतो वाहान्क्षुरेणापाहरच्छिरः ॥ 3-272-24(26321)
न बुबोध हतं सूतं स राजा बाहुशालिना।
तस्याश्वा व्यद्रवन्सङ्ख्ये हतमसूतास्ततस्ततः ॥ 3-272-25(26322)
विरथं हतसूतं तं भीमः प्रहरतांवरः।
जघान तलयुक्तेन प्रासेनाभ्येत्य पाण्डवः ॥ 3-272-26(26323)
द्वादशानां तु सर्वेषां सौवीराणां धनंजयः।
चकर्त निशितैर्भल्लैर्धनूंषि च शिरांसि च ॥ 3-272-27(26324)
शिबीनिक्ष्वाकुमुख्यांश्च त्रिगर्तान्सैन्धवानपि।
जघानातिरथः सङ्ख्ये बाणगोचरमागतान् ॥ 3-272-28(26325)
सूदिताः प्रत्यदृश्यन्त बहवः सव्यसाचिना।
सपताकाश्च मातङ्गाः सध्वजाश्च महारथाः ॥ 3-272-29(26326)
प्रच्छाद्य पृथिवीं तस्थुः सर्वमायोधनं प्रति।
शरीराण्यशिरस्कानि विदेहानि शिरांसि च ॥ 3-272-30(26327)
श्वगृध्रकङ्ककाकोलभासगोमायुवायसाः।
अतृप्यंस्तत्रवीराणां हतानां मासशोणितैः ॥ 3-272-31(26328)
`एवं तीक्ष्णशरज्वालैर्गाण्डीवानिलचोदितैः।
सेनेन्धनं ददाहाशु सरोषः पार्थपावकः ॥ 3-272-32(26329)
चक्राणां पतितानां च युगानां च महीपते।
तूणीराणआं पताकानां ध्वजानां च रथैः सह ॥ 3-272-33(26330)
ईषाणामनुकर्षाणां त्रिवेणूनां तथैव च।
अक्षाणामथ योक्राणां प्रतोदानां च राशयः ॥ 3-272-34(26331)
शिरसां पतितानां च कुण्डलोष्णीषधारिणाम्।
भुजानां मकुटानां च हाराणामङ्गदैः सह ॥ 3-272-35(26332)
छत्राणां व्यजनानां च चर्मणआं वर्मणां तथा।
छिन्नानां कार्मुकाणां च पट्टसानां तथैव च ॥ 3-272-36(26333)
शक्तीनामथ खङ्गानां दण्डानां सह तेमरैः।
राशयश्चात्रदृश्यन्ते तत्रतत्र विशांपते ॥ 3-272-37(26334)
पतितैश्चैव मातङ्गैः सयोधैः पर्वतोपमैः।
हयैर्द्विधाकृतैः सार्धं सादिभिः सायुधैस्तथा ॥ 3-272-38(26335)
विप्रविद्धै रथैश्चैव निहतैश्चपदातिभिः।
अगम्यरूपा पृथिवी मांसशोणितकर्दमा' ॥ 3-272-39(26336)
हतेषु तेषु वीरेषु सिन्धुराजो जयद्रथः।
विमुच्य कृष्णां संत्रस्तः पलायनपरोऽभवत् ॥ 3-272-40(26337)
स तस्मिन्संकुले सैन्ये द्रौपदीमवतार्य ताम्।
प्राणप्रेप्सुरुपाधावद्वनं तत्र नराधमः ॥ 3-272-41(26338)
द्रौपदीं धर्मराजस्तु दृष्ट्वा धौम्यपुरस्कृताम्।
माद्रीपुत्रेण वीरेण रथमारोपयत्तदा ॥ 3-272-42(26339)
ततस्तद्विद्रुतं सैन्यमपयाते जयद्रथे।
आदिश्यादिश्य नाराचैराजघान वृकोदरः ॥ 3-272-43(26340)
सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम्।
वारयामास निघ्नन्तं भीमं सैन्धवसैनिकान् ॥ 3-272-44(26341)
अर्जुन उवाच। 3-272-45x(2677)
यस्यापचारात्प्राप्तोऽयमस्मान्क्लेशो दुरासदः।
तमस्मिन्समरोद्देशे न पश्यामि जयद्रथम् ॥ 3-272-45(26342)
`मूढं नैकृतिकं दुष्टं द्रौपद्याः क्लेशकारिणम्'।
तमेवान्विष भद्रं ते किं ते योधैर्निपातितैः।
अनामिषमिदं कर्म कथं वा मन्यते भवान् ॥ 3-272-46(26343)
वैशम्पायन उवाच। 3-272-47x(2678)
इत्युक्तो भीमसेनस्तु गुडाकेशेन धीमता।
युधिष्ठिरमभिप्रेत्य वाग्मी वचनमब्रवीत् ॥ 3-272-47(26344)
हतप्रवीरा रिपवो भूयिष्ठं विद्रुता दिशः।
गृहीत्वा द्रौपदीं राजन्निवर्ततु भवानितः ॥ 3-272-48(26345)
यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना।
प्राप्याश्रमपदं राजन्द्रौपदीं परिसान्त्वय ॥ 3-272-49(26346)
न हि मे मोक्ष्यतेजीवन्मूढः सैन्धवको नृपः।
पातालतलसंस्थोपि यदि शक्रोस्य सारथिः ॥ 3-272-50(26347)
युधिष्ठिर उवाच। 3-272-51x(2679)
न हन्तव्यो महाबाहो दुरात्माऽपिस सैन्धवः।
दुःशलामभिसंस्मृत्य गान्धारीं च यशस्विनीम् ॥ 3-272-51(26348)
वैशम्पायन उवाच। 3-272-52x(2680)
तच्छ्रुत्वा द्रौपदी भीममुवाच व्याकुलेन्द्रिया।
कुपिता ह्रीमती प्राज्ञा पती भीमार्जुनावुभौ ॥ 3-272-52(26349)
कर्तव्यं चेत्प्रियं मह्यं वध्यः स पुरुषाधमः।
सैन्धवापशदः पापो दुर्मतिः कुलपांसनः ॥ 3-272-53(26350)
भार्याभिहर्ता वैरी यो यश्च राज्यहरो रिपुः।
याचमानोऽपिसंग्रामे न मोक्तव्यः कथंचन ॥ 3-272-54(26351)
इत्युक्तौ तौ नरव्याघ्रौ ययतुर्यत्र सैन्धवः।
राजा निववृतेकृष्णामादाय सपुरोहितः ॥ 3-272-55(26352)
स प्रविश्याश्रमपदमपविद्धवृसीकटम्।
मार्कण्डेयादिभिर्विप्रैरनुकीर्णं ददर्श ह ॥ 3-272-56(26353)
द्रौपदीमनुशोचद्भिर्ब्राह्मणैस्तैः समाहितैः।
समेयाय महाप्राज्ञः सभार्य भ्रातृमध्यगः ॥ 3-272-57(26354)
ते स्म तं मुदिता दृष्ट्वा पुनरप्यागतं नृपम्।
जित्वा तान्सिनधुसौवीरान्द्रौपदीं चाहृतां पुनः ॥ 3-272-58(26355)
स तैः परिवृतो राजातत्रैवोपविवेश ह।
प्रविवेशाश्रमं कृष्णा यमाभ्यां सह भामिनी ॥ 3-272-59(26356)
भीमसेनार्जुनौ चापि श्रुत्वा क्रोशगतं रिपुम्।
स्वयमश्वांस्तुदन्तौ तौ जवेनैवाभ्यधावताम् ॥ 3-272-60(26357)
इदमत्यद्भुतं चात्र चकारातिरथोऽर्जुनः।
क्रोशमात्रगतानश्वान्सैन्धवस्य जघान यत् ॥ 3-272-61(26358)
स हि दिव्यास्त्रसंपन्नः कृच्छ्रकालेऽप्यसंभ्रमः।
अकरोद्दुष्करं कर्म शरैरस्त्रानुमन्त्रितैः ॥ 3-272-62(26359)
ततोऽभ्यधावतां वीरावुभौ भीमधनंजयौ।
हताश्वं सैन्धवं भीतमेकं व्याकुलचेतसम् ॥ 3-272-63(26360)
सैन्धवस्तु हतान्दृष्ट्वा तथाऽश्वान्स्वान्सुदुःखितः।
`रथात्प्रस्कन्द्य पद्भ्यां वै पलायनपरोऽभवत्' ॥ 3-272-64(26361)
दृष्ट्वा रविक्रमकर्माणि कुर्वाणं च धनंजयम्।
पलायनकृतोत्साहः प्राद्रवद्येन वै वनम् ॥ 3-272-65(26362)
सैन्धवं त्वमिसंप्रेक्ष्यपराक्रान्तं पलायने।
अनुयाय महाबाहुः फल्गुनो वाक्यमब्रवीत् ॥ 3-272-66(26363)
अनन वीर्येण कथं स्त्रियं प्रार्थयसे बलात्।
राजपुत्र निवर्तस्व न ते युक्तं पलायनम् ॥ 3-272-67(26364)
कथं ह्यनुचरान्हित्वा शत्रुमध्ये पलायसे।
इत्युच्यमानः पार्थेन सैन्धवो न न्यवर्तत ॥ 3-272-68(26365)
तिष्ठतिष्ठेति तं भीमः सहसाऽभ्यद्रवद्बली।
मा वधीरिति पार्थस्तं दयावान्प्रत्यभाषत ॥ 3-272-69(26366)
इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि द्विसप्तत्यधिकद्विशततमोऽध्यायः ॥ 272 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-272-5 अन्तरं अभ्यहारयत् भीमजयद्रथयोर्मध्ये प्रवेशेन व्यवधानं कृतवान्। रथवंशेन रथवर्ग्रेण ॥ 3-272-16 क्षेमंकरसुमालवौ इति क. पाठः। क्षेमंकरमहामलौ इति थ. ध. पाठः ॥ 3-272-21 सविषाणं भुजं सदन्तं शुण्डादण्डम्। मूले गण्डप्रदेशे ॥ 3-272-26 तलयुक्तेन मुष्टियुक्तेन ॥ 3-272-46 अन्विष अन्विच्छ ॥ 3-272-51 दुःशलां दुर्योधनभगिनीम् ॥ 3-272-56 अपविद्धा इतस्ततो विशीर्णा बस्यः ऋषीणामासनानि ॥ 3-272-65 विक्रमयुक्तानि कर्माणि ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|